|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.37. अध्यायः 037
Mahabharata - Shalya Parva - Chapter Topics
एकतद्वितत्रितनामकानां विप्राणां कथा॥ 1 ॥

Mahabharata - Shalya Parva - Chapter Text
वैशम्पायन उवाच। 9-37-0x(5169)(62291)
तस्मान्नदीगतं चापि ह्युदपानं यशस्विनः।
त्रितस्य च महाराज जगामाथ हलायुधः॥ 9-37-1(62292)
तत्र दत्त्वा बहुद्रव्यं पूजयित्वा तथा द्विजान्।
उपस्पृश्य च तत्रैव प्रहृष्टो मुसलायुधः॥ 9-37-2(62293)
तत्र धर्मपरो ह्यासीत्त्रितः स सुमहातपाः।
कूपे च वसता तेन सोमः पीतो महात्मना॥ 9-37-3(62294)
तत्र चैनं समुत्सृज्य भ्रातरौ जग्मतुर्गृहान्।
ततस्तौ वै शशापाथ त्रितो ब्राह्मणसत्तमः॥ 9-37-4(62295)
जनमेजय उवाच। 9-37-5x(5170)
उदपानं कथं ब्रह्मन्कथं च सुमहातपाः।
पतितः किं च सन्त्यक्तो भ्रातृभ्यां द्विजसत्तम॥ 9-37-5(62296)
कूपे कथं च हित्वैनं भ्रातरौ जग्मतुर्गृहान्।
कथं च याजयामास पपौ सोमं च वै कथम्।
एतदाचक्ष्व मे ब्रह्मन्श्रोतव्यं यदि मन्यसे॥ 9-37-6(62297)
वैशम्पायन उवाच। 9-37-7x(5171)
आसन्पूर्वयुगे राजन्मुनयो भ्रातरस्त्रयः।
एकतश्च द्वितश्चैव त्रितश्चादित्यसन्निभाः॥ 9-37-7(62298)
सर्वे प्रजापतिसमाः प्रजावन्तस्तथैव च।
ब्रह्मलोकजिताः सर्वे तपसा ब्रह्मवादिनः॥ 9-37-8(62299)
तेषां तु तपसा प्रीतो नियमेन दमेन च।
अभवद्गौतमो नित्यं पिता धर्मरतः सदा॥ 9-37-9(62300)
स तु दीर्घेण कालेन तेषां प्रीतिमवाप्य च।
जगाम भगवान्स्थानमनुरूपमिवात्मनः॥ 9-37-10(62301)
राजानस्तस्य ये ह्यासन्याज्या राजन्महात्मनः।
ते सर्वे स्वर्गते तस्मिंस्तस्य पुत्रानपूजयन्॥ 9-37-11(62302)
तेषां तु कर्मणा राजंस्तथा चाध्ययनेन च।
त्रितः स श्रेष्ठतां प्राप यथैवास्य पिता तथा॥ 9-37-12(62303)
तथा सर्वे महाभागा मुनयः पुण्यलक्षणाः।
अपूजयन्महाभागं यथास्य पितरं तथा॥ 9-37-13(62304)
कदाचिद्वि ततो राजन्भ्रातरावेकतद्वितौ।
यज्ञार्थं चक्रतुश्चिन्तां तथा वित्तार्थमेव च॥ 9-37-14(62305)
तयोर्बुद्धिः समभवत्त्रितं गृह्य परन्तप।
याज्यान्सर्वानुपादाय प्रतिगृह्य पशूंस्ततः।
सोमं पास्यामहे हृष्टाः प्राप्य यज्ञं महाफलम्॥ 9-37-15(62306)
चक्रुश्चैवं तथा राजन्भ्रातरस्त्रय एव च।
यथा ते तु परिक्रम्य याज्यान्सर्वान्पशून्प्रति।
याजयित्वा ततो याज्याँल्लब्ध्वा तु सुबहून्पशून्॥ 9-37-16(62307)
याज्येन कर्मणा तेन प्रतिगृह्य विधानतः।
प्राचीं दिशं महात्मान आजग्मुस्ते महर्षयः॥ 9-37-17(62308)
त्रितस्तेषां महाराज पुरस्ताद्याति हृष्टवत्।
एकतश्च द्वितश्चैव पृष्ठतः कालयन्पशून्॥ 9-37-18(62309)
तयोश्चिन्ता समभवदेकतस्य द्वितस्य च।
कथं च स्युरिमा गाव आवाभ्यां हि विना त्रितम्॥ 9-37-19(62310)
तावन्योन्यं समाभाष्य एकतश्च द्वितश्च ह।
यदूचतुर्मिथः पापौ तन्निबोध जनेश्वर॥ 9-37-20(62311)
त्रितो यज्ञेषु कुशलस्तथा वेदेषु निष्ठितः।
ततस्त्रितो बहुतरं गावः समुपलप्स्यते॥ 9-37-21(62312)
तदावां सहितौ भूत्वा गाः प्रकाल्य व्रजावहे।
त्रितोऽपि गच्छतां काममावाभ्यां वै विनाकृताः॥ 9-37-22(62313)
वैशम्पायन उवाच। 9-37-23x(5172)
तेषामागच्छतां रात्रौ पथिस्थानां वृकोऽभवत्।
तत्र कूपो विदूरेऽभूत्सरस्वत्यास्तटे महान्॥ 9-37-23(62314)
अथं त्रितो वृकं दृष्ट्वा पथि तिष्ठन्तमग्रतः।
तद्भ्यादपसर्पन्वै तस्मिन्कूपे पपात ह।
अगाधे सुमहाघोरे सर्वभूतभयङ्करे॥ 9-37-24(62315)
त्रितस्ततो महाराज कूपस्थो मुनिसत्तमः।
आर्तनादं ततश्चक्रे तौ तु शुश्रुवतुर्मुनी॥ 9-37-25(62316)
त ज्ञात्वा पतितं कूपे भ्रातरावेकतद्वितौ।
वृकत्रासाच्च लोभाच्च समुत्सृज्य प्रजग्मतुः॥ 9-37-26(62317)
भ्रातृभ्यां पशुलुब्धाभ्यामुत्सृष्टः स महातपाः।
उदपाने तदा राजन्निर्जले पांसुपंवृते॥ 9-37-27(62318)
त्रित आत्मानमालक्ष्य कूपे वीरुत्तृणावृते।
निमग्नं भरतश्रेष्ठ नरके दुष्कृती यथा॥ 9-37-28(62319)
ततो ह्यचिन्तयत्प्राज्ञो मृतभूतो ह्यसोमपः।
सोमः कथं तु पातव्य इहस्थेन मया भवेत्॥ 9-37-29(62320)
स एवमभिसञ्चिन्त्य तस्मिन्कूपे महातपाः।
ददर्श वीरुधं तत्र लम्बमानां यदृच्छया॥ 9-37-30(62321)
पांसुग्रस्ते ततः कूपे न्यखनत्सलिलं मुनिः।
अग्नीन्सङ्कल्पयामास होतॄनात्मानमेव च॥ 9-37-31(62322)
ततस्तां वीरुधं सोमं सङ्कल्प सुमहातपाः।
ऋचो जयूंषि सामानि मनसा चिन्तयन्मुनिः॥ 9-37-32(62323)
ग्रावाणः शर्कराः कृत्वा प्रचक्रेऽभिषवं नृप।
आज्यं च सलिलं चक्रे भागांश्च त्रिदिवौकसाम्॥ 9-37-33(62324)
सोमस्याभिषवस्याग्रे प्रवृत्तस्तुमुलो ध्वनिः।
स चाविशद्दिवं राजन्स्वरश्चैव त्रितस्त वै॥ 9-37-34(62325)
समवाप च तं यज्ञां यथोक्तं ब्रह्मवादिभिः॥ 9-37-35(62326)
वर्तमाने महायज्ञे त्रितस्य सुमहात्मनः।
आविग्नं त्रिदिवं सर्वं कारमं च न बुध्यते॥ 9-37-36(62327)
ततः सुतुमुलं शब्दं शुश्रावाथ बृहस्पतिः।
श्रुत्वा चैवाब्रवीत्सर्वान्देवान्देवपुरोहितः॥ 9-37-37(62328)
त्रितस्य वर्तते यज्ञस्तत्र गच्छामहे सुराः।
स हि क्रुद्धः सृजेदन्यान्देवानपि महातपाः॥ 9-37-38(62329)
तच्छ्रुत्वा वचनं तस्य सहिताः सर्वदेवताः।
प्रययुस्तत्र यत्रास्ते त्रितयज्ञश्च वर्तते॥ 9-37-39(62330)
ते तत्र गत्वा विबुधास्तं कूपं यत्र स त्रितः।
ददृशुस्तं महात्मानं दीक्षितं यज्ञकर्मसु॥ 9-37-40(62331)
दृष्ट्वा चैनं महात्मानं श्रिया परमया युतम्।
ऊचुश्चैनं महाभागं प्राप्ता भागार्थिनो वयम्॥ 9-37-41(62332)
अथाब्रवीदृषिर्देवान्पश्यध्वं मां दिवौकसः।
अस्मिन्प्रतिभये कूपे निमग्नं नष्टचेतसम्॥ 9-37-42(62333)
ततस्त्रितो महाराज भागांस्तेषां यथाविधि।
मन्त्रयुक्तान्समददात्तेन प्रीतास्तदाऽभवन्॥ 9-37-43(62334)
ततो यथाविधि प्राप्तान्भागान्प्राप्य दिवौकसः।
प्रीतात्मानो ददुस्तस्मै वरान्यान्मनसेच्छति॥ 9-37-44(62335)
स तु वव्रे लवरं देवांस्त्रातुमर्हथ मामितः।
यश्चाम्भोपस्पृशेत्कूपे स सोमपगतिं लभेत्॥ 9-37-45(62336)
तत्र चोर्मिमती राजन्नुत्पपात सरस्वती।
तयोत्क्षिप्तस्त्रितस्तस्थौ पूजयंस्त्रिदिवौकसः॥ 9-37-46(62337)
तथेति चोक्त्वा विबुधा जग्मू राजन्यथाऽऽगताः।
त्रितश्चाभ्यागमत्प्रीतः स्वमेव निलयं तदा॥ 9-37-47(62338)
क्रुद्धस्तु स समासाद्य तावृषी भ्रातरौ तदा।
उवाच परुषं वाक्यं शशाप च महातपाः॥ 9-37-48(62339)
पशुलुब्धौ युवां यस्मान्मामुत्सृज्य प्रधावितौ।
तस्माद्वृकाकृती रौद्रौ दंष्ट्रिणावभितश्चरौ॥ 9-37-49(62340)
भवितारौ मया शप्तौ पापेनानेन कर्मणा।
प्रसवश्चैव युवयोर्गोलाङ्गूलर्क्षवानराः॥ 9-37-50(62341)
इत्युक्तेन तदा तेन क्षणादेव विशाम्पते।
तथाभूतावदृश्येतां वचनात्सत्यवादिनः॥ 9-37-51(62342)
तत्राप्यमितविक्रान्तः स्पृष्ट्वा तोयं हलायुधः।
दत्त्वाच विविधान्देयान्पूजयित्वा च वै द्विजान्॥ 9-37-52(62343)
उदपानं च तं वीक्ष्य प्रशस्य च पुनःपुनः।
नदीगतमदीनात्मा प्राप्तो विनशनं तदा॥ ॥ 9-37-53(62344)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि सप्तत्रिंशोऽध्यायः॥ 37 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-37-6 याजयामास स्वार्थे णिच् यागं कृतवान्॥ 9-37-8 सर्वे प्रजापतिसुताः प्रजापतय एव च इति क.पाठः॥ 9-37-16 पशून्प्रतिपश्वर्थम्। दक्षिणार्था गाः प्राप्तुमित्यर्थः॥ 9-37-18 त्रितश्चाकालयन्पशून् इति क.पाठः॥ 9-37-23 पथिस्थाने वृकोऽभवदिति क.ङ.पाठः॥ 9-37-45 यश्चेहोपस्पृशेदिति झ.पाठः॥ 9-37-37 सप्तत्रिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|